अधरम मधुरम मधुराष्टकम अश्विनी भिडे - The Indic Lyrics Database

अधरम मधुरम मधुराष्टकम अश्विनी भिडे

गीतकार - वल्लभाचार्य | गायक - अश्विनी भिड़े | संगीत - | फ़िल्म - (गैर फिल्म) | वर्ष - 1991

View in Roman

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरं ..वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं .
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरं ..वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ .
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरं ..गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं .
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरं ..करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरं .
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरं ..गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा .
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरं ..गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं .
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरं ..गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा .
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरं ..